शनि वज्रपञ्जर कवच

ध्यान और ९ श्लोक · संक्षिप्त पाठ-संस्करण

कवच · 1 बार पढ़ा गया
रोहन

नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् । चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद्वरदः प्रशान्तः ॥ कवचम्शिरः शनैश्चरः पातु फालं मे सूर्यनन्दनः । नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः ॥ १ ॥

नासां वैवस्वतः पातु मुखं मे भास्करः सदा । स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः ॥ २ ॥

स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रदः । वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा ॥ ३ ॥

नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा । ऊरू ममान्तकः पातु यमो जानुयुगं तथा ॥ ४ ॥

पादौ मन्दगतिः पातु सर्वाङ्गं पातु पिप्पलः । अङ्गोपाङ्गानि सर्वाणि रक्षेन्मे सूर्यनन्दनः ॥ ५ ॥

फलश्रुतिः – इत्येतत्कवचं दिव्यं पठेत् सूर्यसुतस्य यः । न तस्य जायते पीडा प्रीतो भवति सूर्यजः ॥ ६ ॥

व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोऽपि वा । कलत्रस्थो गतो वाऽपि सुप्रीतस्तु सदा शनिः ॥ ७ ॥

अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे । कवचं पठते नित्यं न पीडा जायते क्वचित् ॥ ८ ॥

इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा । द्वादशाष्टम जन्मस्थ दोषान्नाशयते सदा ॥ ९ ॥