कृष्ण कवच

ब्रह्मवैवर्तपुराण · त्रैलोक्यविजय कृष्ण कवच · चयनित पाठ

कवच · 1 बार पढ़ा गया
रोहन

महादेव उवाच । त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः । ऋषिश्छन्दश्च गायत्री देवो रासेश्वरः स्वयम् ॥ १ ॥

त्रैलोक्यविजयप्राप्तौ विनियोगः प्रकीर्तितः । परात्परं च कवचं त्रिषु लोकेषु दुर्लभम् ॥ २ ॥

ओम् । प्रणवो मे शिरः पातु श्रीकृष्णाय नमः सदा । पायात्कपालं कृष्णाय स्वाहा पञ्चाक्षरः स्मृतः ॥ ३ ॥

कृष्णेति पातु नेत्रे च कृष्ण स्वाहेति तारकम् । हरये नम इत्येवं भ्रूलतां पातु मे सदा ॥ ४ ॥

ओं गोविन्दाय स्वाहेति नासिकां पातु सन्ततम् । गोपालाय नमो गण्डौ पातु मे सर्वतः सदा ॥ ५ ॥

--> ओं नमो गोपाङ्गनेशाय कर्णौ पातु सदा मम । ओं कृष्णाय नमः शश्वत् पातु मेऽधरयुग्मकम् ॥ ६ ॥

ओं गोविन्दाय स्वाहेति दन्तौघं मे सदाऽवतु । पातु कृष्णाय दन्ताधो दन्तोर्ध्वं क्लीं सदाऽवतु ॥ ७ ॥

ओं श्रीकृष्णाय स्वाहेति जिह्विकां पातु मे सदा । रासेश्वराय स्वाहेति तालुकं पातु मे सदा ॥ ८ ॥

राधिकेशाय स्वाहेति कण्ठं पातु सदा मम । नमो गोपाङ्गनेशाय वक्षः पातु सदा मम ॥ ९ ॥

ओं गोपेशाय स्वाहेति स्कन्धं पातु सदा मम । नमः किशोरवेषाय स्वाहा पृष्ठं सदाऽवतु ॥ १० ॥

उदरं पातु मे नित्यं मुकुन्दाय नमः सदा । ओं ह्रीं क्लीं कृष्णाय स्वाहेति करौ पातु सदा मम ॥ ११ ॥

ओं विष्णवे नमो बाहुयुग्मं पातु सदा मम । ओं ह्रीं भगवते स्वाहा नखरं पातु मे सदा ॥ १२ ॥

ओं नमो नारायणायेति नखरन्ध्रं सदाऽवतु । ओं ह्रीं ह्रीं पद्मनाभाय नाभिं पातु सदा मम ॥ १३ ॥

ओं सर्वेशाय स्वाहेति कङ्कालं पातु मे सदा । ओं गोपीरमणाय स्वाहा नितम्बं पातु मे सदा ॥ १४ ॥

ओं गोपीरमणनाथाय पादौ पातु सदा मम । ओं ह्रीं श्रीं रसिकेशाय स्वाहा सर्वं सदाऽवतु ॥ १५ ॥

ओं केशवाय स्वाहेति मम केशान् सदाऽवतु । नमः कृष्णाय स्वाहेति ब्रह्मरन्ध्रं सदाऽवतु ॥ १६ ॥

ओं माधवाय स्वाहेति मे लोमानि सदाऽवतु । ओं ह्रीं श्रीं रसिकेशाय स्वाहा सर्वं सदाऽवतु ॥ १७ ॥

परिपूर्णतमः कृष्णः प्राच्यां मां सर्वदाऽवतु । स्वयं गोलोकनाथो मामाग्नेयां दिशि रक्षतु ॥ १८ ॥

पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदाऽवतु । नैरृत्यां पातु मां कृष्णः पश्चिमे पातु मां हरिः ॥ १९ ॥

गोविन्दः पातु मां शश्वद्वायव्यां दिशि नित्यशः । उत्तरे मां सदा पातु रसिकानां शिरोमणिः ॥ २० ॥

ऐशान्यां मां सदा पातु वृन्दावनविहारकृत् । वृन्दावनीप्राणनाथः पातु मामूर्ध्वदेशतः ॥ २१ ॥

सदैव माधवः पातु बलिहारी महाबलः । जले स्थले चान्तरिक्षे नृसिंहः पातु मां सदा ॥ २२ ॥

स्वप्ने जागरणे शश्वत् पातु मां माधवः सदा । सर्वान्तरात्मा निर्लिप्तः पातु मां सर्वतो विभुः ॥ २३ ॥

इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् । त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ॥ २४ ॥

इति श्रीब्रह्मवैवर्ते महापुराणे गणपतिखण्डे एकत्रिंशत्तमोऽध्यये श्री कृष्ण कवचम् ॥