लक्ष्मी कवच (पद्मा कवच)

31 श्लोक · चयनित मूल पाठ

कवच · 1 बार पढ़ा गया
रोहन

शृणु विप्रेन्द्र पद्मायाः कवचं परमं शुभम् ॥ पद्मनाभेन यद्दत्तं ब्रह्मणे नाभिपद्मके ॥ १ ॥

सम्प्राप्य कवचं ब्रह्मा तत्पद्मे ससृजे जगत् ॥ पद्मालयाप्रसादेन सलक्ष्मीको बभूव सः ॥ २ ॥

पद्मालयावरं प्राप्य पाद्मश्च जगतां प्रभुः ॥ पाद्मेन पद्मकल्पे च कवचं परमाद्भुतम् ॥ ३ ॥

दत्तं सनत्कुमाराय प्रियपुत्राय धीमते ॥ कुमारेण च यद्दत्तं पुष्कराक्षाय नारद ॥ ४ ॥

यद्धृत्वा पठनाद् ब्रह्मा सर्वसिद्धेश्वरो महान् ॥ परमैश्वर्यसंयुक्तः सर्वसम्पत्समन्वितः ॥ ५ ॥

यद्धृत्वा च धनाध्यक्षः कुबेरश्च धनाधिपः ॥ स्वायम्भुवो मनुः श्रीमान्पठनाद्धारणाद्यतः ॥ ६ ॥

प्रियव्रतोत्तानपादौ लक्ष्मीवन्तौ यतो मुने ॥ पृथुः पृथ्वीपतिः सद्यो ह्यभवद्धारणाद्यतः ॥ ७ ॥

कवचस्य प्रसादेन स्वयं दक्षः प्रजापतिः ॥ धर्म्मश्च कर्म्मणां साक्षी पाता यस्य प्रसादतः ॥ ८ ॥

यद्धृत्वा दक्षिणे बाहौ विष्णुः क्षीरोदशायितः ॥ भक्त्या विधत्ते कण्ठे च शेषो नारायणांशकः ॥ ९ ॥

यद्धृत्वा वामनं लेभे कश्यपश्च प्रजापतिः ॥ सर्वदेवाधिपः श्रीमान्महेन्द्रो धारणाद्यतः ॥ १० ॥

राजा मरुत्तो भगवानभवद्धारणाद्यतः ॥ त्रैलोक्याधिपतिः श्रीमान्नहुषो यस्य धारणात् ॥ ११ ॥

विश्वं विजिग्ये खट्वाङ्गः पठनाद्धारणाद्यतः ॥ मुचुकुन्दो यतः श्रीमान्मान्धातृतनयो महान् ॥ १२ ॥

सर्वसम्पत्प्रदस्यास्य कवचस्य प्रजापतिः ॥ ऋषिश्छन्दश्च बृहती देवी पद्मालया स्वयम् ॥ १३ ॥

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ पुण्यबीजं च महतां कवचं परमाद्भुतम् ॥ १४ ॥

ॐ ह्रीं कमलवासिन्यै स्वाहा मे पातु मस्तकम्॥ श्रीं मे पातु कपालं च लोचने श्रीं श्रियै नमः ॥ १५ ॥

ॐ श्रीं श्रियै स्वाहेति च कर्णयुग्मं सदाऽवतु॥ ॐ श्रीं क्लीं महालक्ष्म्यै स्वाहा मे पातु नासिकाम् ॥ १६ ॥

ॐ श्रीं पद्मालयायै च स्वाहा दन्तान्सदाऽवतु ॥ ॐ श्रीं कृष्णप्रियायै च दन्तरन्ध्रं सदाऽवतु ॥ १७ ॥

ॐ श्रीं नारायणेशायै मम कण्ठं सदाऽवतु॥ ॐ श्रीं केशवकान्तायै मम स्कन्धं सदाऽवतु ॥ १८ ॥

ॐ श्रीं पद्मनिवासिन्यै स्वाहा नाभिं सदाऽवतु॥ ॐ ह्रीं श्रीं संसारमात्रे मम वक्षः सदाऽवतु ॥ १९ ॥

ओं श्रीं ॐ कृष्णकान्तायै स्वाहा पृष्ठं सदाऽवतु ॥ ओं ह्रीं श्रीं श्रियै स्वाहा च मम हस्तौ सदाऽवतु ॥ २० ॥

ॐ श्रीनिवासकान्तायै मम पादौ सदाऽवतु ॥ ॐ ह्रीं श्रीं क्लीं श्रियै स्वाहा सर्वाङ्गं मे सदाऽवतु ॥ २१ ॥

प्राच्यां पातु महालक्ष्मीराग्नेय्यां कमलालया ॥ पद्मा मां दक्षिणे पातु नैर्ऋत्यां श्रीर्हरिप्रिया ॥ २२ ॥

पद्मालया पश्चिमे मां वायव्यां पातु सा स्वयम् ॥ उत्तरे कमला पातु चैशान्यां सिन्धुकन्यका ॥ २३ ॥

नारायणी च पातूर्ध्वमधो विष्णुप्रियाऽवतु ॥ सन्ततं सर्वतः पातु विष्णुप्राणाधिका मम ॥ २४ ॥

इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ॥ सर्वैश्वर्य्यप्रदं नाम कवचं परमाद्भुतम् ॥ २५ ॥

सुवर्णपर्वतं दत्त्वा मेरुतुल्यं द्विजातये ॥ यत्फलं लभते धर्मी कवचेन ततोऽधिकम् ॥ २६ ॥

गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः ॥ कण्ठे वा दक्षिणे बाहौ स श्रीमान्प्रतिजन्मनि ॥ २७ ॥

अस्ति लक्ष्मीर्गृहे तस्य निश्चला शतपूरुषम् ॥ देवेन्द्रैश्चासुरेन्द्रैश्च सोऽवध्यो निश्चितं भवेत् ॥ २८ ॥

स सर्वपुण्यवान्धीमान्सर्वयज्ञेषु दीक्षितः ॥ स स्नातः सर्वतीर्थेषु यस्येदं कवचं गले ॥ २९ ॥

यस्मै कस्मै न दातव्यं लोभमोहभयैरपि ॥ गुरुभक्ताय शिष्याय शरण्याय प्रकाशयेत् ॥ ३० ॥

इदं कवचमज्ञात्वा जपेल्लक्ष्मीं जगत्प्रसूम् ॥ कोटिसंख्यं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ ३१ ॥