6 श्लोक · चयनित मूल पाठ
रोहन
वीताखिलविषयेच्छं जातानन्दाश्रुपुलकमत्यच्छम् । सीतापतिदूताद्यं वातात्मजमद्य भावये हृद्यम् ॥ १ ॥
तरुणारुणमुखकमलं करुणारसपूरपूरितापाङ्गम् । सञ्जीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम् ॥ २ ॥
शम्बरवैरिशरातिगमम्बुजदल विपुललोचनोदारम् । कम्बुगलमनिलदिष्टं बिम्बज्वलितोष्ठमेकमवलम्बे ॥ ३ ॥
दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः । दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ ४ ॥
वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृशम् । दीनजनावनदीक्षं पवनतपः पाकपुञ्जमद्राक्षम् ॥ ५ ॥
एतत्पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् । चिरमिह निखिलान्भोगान्भुङ्क्त्वा श्रीरामभक्तिभाग्भवति ॥ ६ ॥