9 श्लोक · चयनित मूल पाठ
रोहन
एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् । लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥ १ ॥
मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम् । बालेन्दुसुकलामौलिं वन्देऽहं गणनायकम् ॥ २ ॥
अम्बिकाहृदयानन्दं मातृभिःपरिवेष्टितम् । भक्तप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥ ३ ॥
चित्ररत्नविचित्राङ्गं चित्रमालाविभूषितम् । चित्ररूपधरं देवं वन्देऽहं गणनायकम् ॥ ४ ॥
गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम् । पाशाङ्कुशधरं देवं वन्देऽहं गणनायकम् ॥ ५ ॥
मूषकोत्तममारुह्य देवासुरमहाहवे । योद्धुकामं महावीर्यं वन्देऽहं गणनायकम् ॥ ६ ॥
यक्षकिन्नरगन्धर्वसिद्धविद्याधरैः सदा । स्तूयमानं महाबाहुं वन्देऽहं गणनायकम् ॥ ७ ॥
सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम् । सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम् ॥ ८ ॥
गणाष्टकमिदं पुण्यं यः पठेत्सततं नरः । सिद्ध्यन्ति सर्वकार्याणि विद्यावान् धनवान् भवेत् ॥ ९ ॥