कोणोऽन्तको वाला शन्यष्टक · फलश्रुति और दस नाम सहित
रोहन
॥ अथ शनिस्तोत्रम् ॥ श्रीः ॥ अस्य श्रीशनैश्चरस्तोत्रस्य दशरथ ऋषिः शनैश्चरो देवता त्रिष्टुप् छन्दः शनैश्चरप्रीत्यर्थे जपे विनियोगः ॥ दशरथ उवाच ॥ कोणोऽन्तको रौद्रयमोऽथ बभ्रुः कृष्णः शनिः पिंगलमंद सौरिः ॥ नित्यं स्मृतो यो हरते च पीडां तस्मै नमः श्रीरविनंदनाय ॥ १ ॥
सुरासुराः किंपुरुषोरगेन्द्रा गन्धर्वविद्याधरपन्नगाश्च ॥ पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनंदनाय ॥ २ ॥
नरा नरेंद्राः पशवो मृगेंद्रा वन्याश्च ये कीटपतंगभृङ्गाः ॥ पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनंदनाय ॥ ३ ॥
देशाश्च दुर्गाणि वनानि यत्र सेनानिवेशाः पुरपत्तनानि ॥ पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनंदनाय ॥ ४ ॥
तिलैर्यवैर्माषगुडान्नदानैर्लोहेन नीलांबरदानतो वा ॥ प्रीणाति मंत्रैर्निजवासरे च तस्मै नमः श्रीरविनंदनाय ॥ ५ ॥
प्रयागकूले यमुनातटे च सरस्वती पुण्यजले गुहायाम् ॥ यो योगिनां ध्यानगतोऽपि सूक्ष्मस्तस्मै नमः श्रीरविनंदनाय ॥ ६ ॥
अन्यप्रदेशात्स्वगृहं प्रविष्टस्तदीयवारे स नरः सुखी स्यात् ॥ गृहाद् गतो यो न पुनः प्रयाति तस्मै नमः श्रीरविनंदनाय ॥ ७ ॥
स्रष्टा स्वयंभूर्भुवनत्रयस्य त्राता हरिः संहरते पिनाकी ॥ एकस्त्रिधा ऋग्यजुःसाममूर्तिस्तस्मै नमः श्रीरविनंदनाय ॥ ८ ॥
शन्यष्टकं यः प्रयतः प्रभाते नित्यं सुपुत्रैः पशुबान्धवैश्च ॥ पठेच्च सौख्यं भुवि भोगयुक्तं प्राप्नोति निर्वाणपदं परं सः ॥ ९ ॥
कोणस्थः पिंगलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः ॥ सौरिः शनैश्चरो मंदः पिप्पलादेन संस्तुतः ॥ १० ॥
एतानि दश नामानि प्रातरुत्थाय यः पठेत् ॥ शनैश्चरकृता पीडा न कदाचिद्भविष्यति ॥ ११ ॥
इति श्रीदशरथप्रोक्तं शनैश्चरस्तोत्रं संपूर्णम् ॥